Monday, October 14, 2019

Sri Vishnu Sahasranama Stotram – श्री विष्णु सहस्रनाम स्तोत्रम्


Sri Vishnu Sahasranama Stotram 
 श्री विष्णु सहस्रनाम स्तोत्रम्

ओं विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १ ॥

पूतात्मा परमात्मा च मुक्तानाम्परमागतिः ।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २ ॥

योगो योगविदां नेता प्रधानपुरुषेश्वरः ।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३ ॥

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४ ॥

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५ ॥

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६ ॥

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ ७ ॥

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८ ॥

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ ९ ॥

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ १० ॥

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ ११ ॥

वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १२ ॥

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वत स्थाणुर्वरारोहो महातपाः ॥ १३ ॥

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ १४ ॥

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूहश्चतुर्दम्ष्ट्रश्चतुर्भुजः ॥ १५ ॥

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६ ॥

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः ।
अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥ १७ ॥

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ १८ ॥

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ १९ ॥

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ २० ॥

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ २१ ॥

अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ २२ ॥

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ २३ ॥

अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः ।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ २४ ॥

आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ।
अहः संवर्तको वह्निरनिलो धरणीधरः ॥ २५ ॥

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ २६ ॥

असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥ २७ ॥

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ २८ ॥

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ २९ ॥

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ३० ॥

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ ३१ ॥

भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ ३२ ॥

युगादिकृद्युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ ३३ ॥

इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ ३४ ॥

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ३५ ॥

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ३६ ॥

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ३७ ॥

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।
महर्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८ ॥

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ३९ ॥

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।
महीधरो महाभागो वेगवानमिताशनः ॥ ४० ॥

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१ ॥

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।
परर्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ ४२ ॥

रामो विरामो विरजो मार्गो नेयो नयोऽनयः ।
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ४३ ॥

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ४४ ॥

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ४५ ॥

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ४६ ॥

अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः ।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥ ४७ ॥

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ४८ ॥

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ४९ ॥

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ५० ॥

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् ।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ५१ ॥

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ ५२ ॥

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ५३ ॥

सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ।
विनयो जयः सत्यसन्धो दाशार्हः सात्त्वताम्पतिः ॥ ५४ ॥

जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ५५ ॥

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ५६ ॥

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ ५७ ॥

महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८ ॥

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९ ॥

भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ ६० ॥

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ६१ ॥

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।
सन्न्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ६२ ॥

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ६३ ॥

अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ ६४ ॥

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमान्लोकत्रयाश्रयः ॥ ६५ ॥

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।
विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ६६ ॥

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ६७ ॥

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ६८ ॥

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ६९ ॥

कामदेवः कामपालः कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ ७० ॥

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७१ ॥

महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ७२ ॥

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ७३ ॥

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ७४ ॥

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ७५ ॥

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ ७६ ॥

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ७७ ॥

एको नैकः स्तवः कः किं यत्तत्पदमनुत्तमम् ।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ७८ ॥

सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।
वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ७९ ॥

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ८० ॥

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ ८१ ॥

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः ।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ८२ ॥

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३ ॥

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४ ॥

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ ८५ ॥

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ८६ ॥

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।
अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ ८७ ॥

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ ८८ ॥

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ ८९ ॥

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ ९० ॥

भारभृत् कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ ९१ ॥

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥ ९२ ॥

सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ ९३ ॥

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ ९४ ॥

अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ ९५ ॥

सनात्सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥ ९६ ॥

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ९७ ॥

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ ९८ ॥

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ ९९ ॥

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १०० ॥

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।
जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ १०१ ॥

आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२ ॥

प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ १०३ ॥

भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४ ॥

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः ।
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५ ॥

आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १०६ ॥

शङ्खभृन्नन्दकी चक्री शार्‍ङ्गधन्वा गदाधरः ।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १०७ ॥

सर्वप्रहरणायुध ओं नम इति ।

वनमाली गदी शार्‍ङ्गी शङ्खी चक्री च नन्दकी ।
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ १०८ ॥

श्री वासुदेवोऽभिरक्षतु ओं नम इति ।

Sri Vishnu Ashtottara Satanama stotram – श्री विष्णु अष्टोत्तर शतनाम स्तोत्रम्

Sri Vishnu Ashtottara Satanama stotram 
 श्री विष्णु अष्टोत्तर शतनाम स्तोत्रम्

अष्टोत्तर शतं नाम्नां विष्णोरतुल तेजसः ।
अस्य श्रवणमात्रेण नरोनारायणो भवेत् ॥ १ ॥

विष्णुर्जिष्णुर्वषट्कारो देवदेवो वृषाकपिः ।
दमोदरो दीनबन्धुरादिदेवोऽदितेस्स्तुतः ॥ २ ॥

पुण्डरीकः परानन्दः परमात्मा परात्परः ।
परशुधारीच विश्वात्मा कृष्णः कलिमलापहः ॥ ३ ॥

कौस्तुभोद्भासितोरस्को नरो नारायणो हरिः ।
हरो हरप्रियः स्वामी वैकुण्ठो विश्वतोमुखः ॥ ४ ॥

हृषीकेशोऽप्रमेयाऽत्मा वराहो धरणीधरः ।
धर्मेशो धरणीनाधो ध्येयो धर्मभृतांवरः ॥ ५ ॥

सहस्रशीर्षा पुरुषः सहस्राक्ष सहस्रपात् ।
सर्वगः सर्ववित्सर्वं शरण्यः साधुवल्लभः ॥ ६ ॥

कौसल्यानन्दनः श्रीमान् रक्षःकुलविनाशकः ।
जगत्कर्ता जगद्धार्ता जगज्जेता जनार्तिहा ॥ ७ ॥

जानकीवल्लभो देवो जयरूपो जयेश्वरः ।
क्षीराब्धिवासी क्षीराब्धितनयावल्लभ स्तधा ॥ ८ ॥

शेषशायी पन्नगारिवाहनो विष्टरश्रवः ।
माधवो मथुरानाथो मुकुन्दो मोहनाशनः ॥ ९ ॥

दैत्यारिः पुण्डरीकाक्षो ह्यच्युतो मधुसूदनः ।
सोमसूर्याग्निनयनो नृसिंहो भक्तवत्सलः ॥ १० ॥

नित्यो निरामयश्शुद्धो नरदेवो जगत्प्रभुः ।
हयग्रीवो जितरिपुरुपेन्द्रो रुक्मिणीपतिः ॥ ११ ॥

सर्वदेवमयः श्रीशः सर्वाधारः सनातनः ।
स्ॐयः स्ॐयप्रदः स्रष्टा विष्वक्सेनो जनार्दनः ॥ १२ ॥

यशोदातनयो योगी योगशास्त्रपरायणः ।
रुद्रात्मको रुद्रमूर्तिः राघवो मधुसूधनः ॥ १३ ॥

इति ते कथितान्दिव्यान्नाम्नामष्टोत्तरं शतम् ।
सर्वपापहरं पुण्यं विष्णो रमिततेजसः ॥ १४ ॥

दुःख दारिद्र्य दौर्भाग्य नाशनं सुखवर्धनम् ।
सर्वसम्पत्करं स्ॐयं महापातक नाशनम् ॥ १५ ॥

प्रातरुत्थाय विपेन्द्र पठेदेकाग्रमानसः ।
तस्य नश्यन्ति विपदा राशयः सिद्धिमाप्नुयात् ॥ १६ ॥

Dasavatara Stuthi – दशावतारस्तुति


Dasavatara Stuthi – दशावतारस्तुति

नामस्मरणादन्योपायं न हि पश्यामो भवतरणे ।
राम हरे कृष्ण हरे तव नाम वदामि सदा नृहरे ॥

वेदोद्धारविचारमते सोमकदानवसंहरणे
मीनाकारशरीर नमो हरि भक्तं ते परिपालय माम् ॥ १ ॥

मन्थानाचलधारणहेतो देवासुर परिपाल विभो
कूर्माकारशरीर नमो हरि भक्तं ते परिपालय माम् ॥ २ ॥

भूचोरकहर पुण्यमते क्रीढोद्धृतभूदेशहरे
क्रोढाकार शरीर नमो हरि भक्तं ते परिपालय माम् ॥ ३ ॥

हिरण्यकशिपुच्छेदनहेतो प्रह्लादाऽभयधारणहेतो
नरसिंहाच्युतरूप नमो हरि भक्तं ते परिपालय माम् ॥ ४ ॥

बलिमदभञ्जन विततमते पादोद्वयकृतलोककृते
वटुपटुवेष मनोज्ञ नमो हरि भक्तं ते परिपालय माम् ॥ ५ ॥

क्षितिपतिवम्शसम्भवमूर्ते क्षितिपतिरक्षाक्षतमूर्ते
भृगुपतिरामवरेण्य नमो हरि भक्तं ते परिपालय माम् ॥ ६ ॥

सीतावल्लभ दाशरथे दशरथनन्दन लोकगुरो
रावणमर्दन राम नमो हरि भक्तं ते परिपालय माम् ॥ ७ ॥

कृष्णानन्त कृपाजलधे कंसारे कमलेश हरे
कालियमर्दन कृष्ण नमो हरि भक्तं ते परिपालय माम् ॥ ८ ॥

त्रिपुरसती मानविहरणा त्रिपुरविजयमार्गनरूपा
शुद्धज्ञानविबुद्ध नमो भक्तां ते परिपालय माम् ॥ ९ ॥

शिष्टजनावन दुष्टहर खगतुरगोत्तमवाहन ते
कल्किरूपपरिपाल नमो भक्तां ते परिपालय माम् ॥ १० ॥

नामस्मरणादन्य़ोपायं न हि पश्यामो भवतरणे
राम हरे कृष्ण हरे तव नाम वदामि सदा नृहरे ॥ ११ ॥

Sri Ahobala Narasimha Stotram – श्री अहोबल नृसिंह स्तोत्रम्

Sri Ahobala Narasimha Stotram  
श्री अहोबल नृसिंह स्तोत्रम्

लक्ष्मीकटाक्षसरसीरुहराजहंसं
पक्षीन्द्रशैलभवनं भवनाशमीशं ।
गोक्षीरसार घनसारपटीरवर्णं
वन्दे कृपानिधिमहोबलनारसिंहम् ॥ १ ॥

आद्यन्तशून्यमजमव्ययमप्रमेयं
आदित्यचन्द्रशिखिलोचनमादिदेवं ।
अब्जामुखाब्जमदलोलुपमत्तभृङ्गं
वन्दे कृपानिधिमहोबलनारसिंहम् ॥ २ ॥

कोटीरकोटिघटितोज्ज्वलकान्तिकान्तं
केयूरहारमणिकुण्डलमण्डिताङ्गं ।
चूडाग्ररञ्जितसुधाकरपूर्णबिम्बं
वन्दे कृपानिधिमहोबलनारसिंहम् ॥ ३ ॥

वराहवामननृसिंहसुभाग्यमीशं
क्रीडाविलोलहृदयं विबुधेन्द्रवन्द्यं ।
हंसात्मकं परमहंसमनोविहारं
वन्दे कृपानिधिमहोबलनारसिंहम् ॥ ४ ॥

मन्दाकिनीजननहेतुपदारविन्दं
बृन्दारकालयविनोदनमुज्ज्वलाङ्गं ।
मन्दारपुष्पतुलसीरचिताङ्घ्रिपद्मं
वन्दे कृपानिधिमहोबलनारसिंहम् ॥ ५ ॥

तारुण्यकृष्णतुलसीदलधामरम्यं
धात्रीरमाभिरमणं महनीयरूपं ।
मन्त्राधिराजमथदानवमानभृङ्गं
वन्दे कृपानिधिमहोबलनारसिंहम् ॥ ६ ॥

इति अहोबलनृसिंह स्तोतम् ॥

Sri Narayana Hrudaya Stotram – श्री नारायण हृदय स्तोत्रम्

Sri Narayana Hrudaya Stotram 
श्री नारायण हृदय स्तोत्रम्
अस्य श्रीनारायण-हृदय-स्तोत्र-महामन्त्रस्य भार्गव ऋषिः,
अनुष्टुप्छन्दः, श्री लक्ष्मीनारायणो देवता, ओं बीजं, नमश्शक्तिः, नारायणायेति कीलकं, नारायण-प्रीत्यर्थे जपे विनियोगः ॥

करन्यासः ॥

नारायणः परं ज्योतिरिति अङ्गुष्ठाभ्यां नमः,
नारायणः परं ब्रह्मेति तर्जनीभ्यां नमः,
नारायणः परो देव इति मध्यमाभ्यां नमः,
नारायणः परं धामेति अनामिकाभ्यां नमः,
नारायणः परो धर्म इति कनिष्ठिकाभ्यां नमः,
विश्वं नारायण इति करतलकरपृष्ठाभ्यां नमः ॥

अङ्गन्यासः ॥

नारायणः परं ज्योतिरिति हृदयाय नमः,
नारायणः परं ब्रह्मेति शिरसे स्वाहा,
नारायणः परो देव इति शिखायै वौषट्,
नारायणः परं धामेति कवचाय हुम्,
नारायणः परो धर्म इति नेत्राभ्यां वौषट्,
विश्वं नारायण इति अस्त्राय फट्,
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम् ॥

उद्यादादित्यसङ्काशं पीतवासं चतुर्भुजम् ।
शङ्खचक्रगदापाणिं ध्यायेल्लक्ष्मीपतिं हरिम् ॥ १ ॥

त्रैलोक्याधारचक्रं तदुपरि कमठं तत्र चानन्तभोगी
तन्मध्ये भूमि-पद्माङ्कुश-शिखरदलं कर्णिकाभूत-मेरुम् ।
तत्रत्यं शान्तमूर्तिं मणिमय-मकुटं कुण्डलोद्भासिताङ्गं
लक्ष्मी-नारायणाख्यं सरसिज-नयनं सन्ततं चिन्तयामः ॥ २ ॥

अस्य श्रीनारायणाहृदय-स्तोत्र-महामन्त्रस्य ब्रह्मा ऋषिः,
अनुष्टुप् छन्दः, नारायणो देवता, नारायण-प्रीत्यर्थे जपे विनियोगः ॥

ओम् ॥ नारायणः परं ज्योति-रात्मा नारायणः परः ।
नारायणः परं ब्रह्म नारायण नमोऽस्तु ते ॥ ३ ॥

नारायणः परो देवो धाता नारायणः परः ।
नारायणः परो धाता नारायण नमोऽस्तु ते ॥ ४ ॥

नारायणः परं धाम ध्यानम् नारायणः परः ।
नारायण परो धर्मो नारायण नमोऽस्तु ते ॥ ५ ॥

नारायणः परो देवो विद्या नारायणः परः ।
विश्वं नारायणः साक्षान् नारायण नमोऽस्तु ते ॥ ६ ॥

नारायणाद् विधि-र्जातो जातो नारायणाद् भवः ।
जातो नारायणादिन्द्रो नारायण नमोऽस्तु ते ॥ ७ ॥

रवि-र्नारायण-स्तेजः चन्द्रो नारायणो महः ।
वह्नि-र्नारायणः साक्षात् नारायण नमोऽस्तु ते ॥ ८ ॥

नारायण उपास्यः स्याद् गुरु-र्नारायणः परः ।
नारायणः परो बोधो नारायण नमोऽस्तु ते ॥ ९ ॥

नारायणः फलं मुख्यं सिद्धि-र्नारायणः सुखम् ।
हरि-र्नारायणः शुद्धि-र्नारायण नमोऽस्तु ते ॥ १० ॥

निगमावेदितानन्त-कल्याणगुण-वारिधे ।
नारायण नमस्तेऽस्तु नरकार्णव-तारक ॥ ११ ॥

जन्म-मृत्यु-जरा-व्याधि-पारतन्त्र्यादिभिः सदा ।
दोषै-रस्पृष्टरूपाय नारायण नमोऽस्तु ते ॥ १२ ॥

वेदशास्त्रार्थविज्ञान-साध्य-भक्त्येक-गोचर ।
नारायण नमस्तेऽस्तु मामुद्धर भवार्णवात् ॥ १३ ॥

नित्यानन्द महोदार परात्पर जगत्पते ।
नारायण नमस्तेऽस्तु मोक्षसाम्राज्य-दायिने ॥ १४ ॥

आब्रह्मस्थम्ब-पर्यन्त-मखिलात्म-महाश्रय ।
सर्वभूतात्म-भूतात्मन् नारायण नमोऽस्तु ते ॥ १५ ॥

पालिताशेष-लोकाय पुण्यश्रवण-कीर्तन ।
नारायण नमस्तेऽस्तु प्रलयोदक-शायिने ॥ १६ ॥

निरस्त-सर्वदोषाय भक्त्यादि-गुणदायिने ।
नारायण नमस्तेऽस्तु त्वां विना न हि मे गतिः ॥ १७ ॥

धर्मार्थ-काम-मोक्षाख्य-पुरुषार्थ-प्रदायिने ।
नारायण नमस्तेऽस्तु पुनस्तेऽस्तु नमो नमः ॥ १८ ॥

प्रार्थना ॥

नारायण त्वमेवासि दहराख्ये हृदि स्थितः ।
प्रेरिता प्रेर्यमाणानां त्वया प्रेरित मानसः ॥ १९ ॥

त्वदाज्ञां शिरसा कृत्वा भजामि जन-पावनम् ।
नानोपासन-मार्गाणां भवकृद् भावबोधकः ॥ २० ॥

भावार्थकृद् भवातीतो भव सौख्यप्रदो मम ।
त्वन्मायामोहितं विश्वं त्वयैव परिकल्पितम् ॥ २१ ॥

त्वदधिष्ठान-मात्रेण सा वै सर्वार्थकारिणी ।
त्वमेव तां पुरस्कृत्य मम कामान् समर्थय ॥ २२ ॥

न मे त्वदन्यस्त्रातास्ति त्वदन्यन्न हि दैवतम् ।
त्वदन्यं न हि जानामि पालकं पुण्यवर्धनम् ॥ २३ ॥

यावत्सांसारिको भावो मनस्स्थो भावनात्मकः ।
तावत्सिद्धिर्भवेत् साध्या सर्वदा सर्वदा विभो ॥ २४ ॥

पापिना-महमेकाग्रो दयालूनां त्वमग्रणीः ।
दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥ २५ ॥

त्वयाहं नैव सृष्टश्चेत् न स्यात्तव दयालुता ।
आमयो वा न सृष्टश्चे-दौषधस्य वृथोदयः ॥ २६ ॥

पापसङ्ग-परिश्रान्तः पापात्मा पापरूप-धृक् ।
त्वदन्यः कोऽत्र पापेभ्यः त्रातास्ति जगतीतले ॥ २७ ॥

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव ॥ २८ ॥

प्रार्थनादशकं चैव मूलष्टकमथःपरम् ।
यः पठेच्छृणुयान्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥ २९ ॥

नारायणस्य हृदयं सर्वाभीष्ट-फलप्रदम् ।
लक्ष्मीहृदयकं स्तोत्रं यदि चैतद्विनाकृतम् ॥ ३० ॥

तत्सर्वं निष्फलं प्रोक्तं लक्ष्मीः क्रुध्यति सर्वदा ।
एतत्सङ्कलितं स्तोत्रं सर्वाभीष्ट-फलप्रदम् ॥ ३१ ॥

जपेत् सङ्कलितं कृत्वा सर्वाभीष्ट-मवाप्नुयात् ।
नारायणस्य हृदयं आदौ जप्त्वा ततःपरम् ॥ ३२ ॥

लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः ।
पुनर्नारायणं जप्त्वा पुनर्लक्ष्मीनुतिं जपेत् ॥ ३३ ॥

तद्वद्धोमाधिकं कुर्या-देतत्सङ्कलितं शुभम् ।
एवं मध्ये द्विवारेण जपेत् सङ्कलितं शुभम् ॥ ३४ ॥

लक्ष्मीहृदयके स्तोत्रे सर्वमन्यत् प्रकाशितम् ।
सर्वान् कामानवाप्नोति आधिव्याधि-भयं हरेत् ॥ ३५ ॥

गोप्यमेतत् सदा कुर्यात् न सर्वत्र प्रकाशयेत् ।
इति गुह्यतमं शास्त्रं प्रोक्तं ब्रह्मादिभिः पुरा ॥ ३६ ॥

लक्ष्मीहृदयप्रोक्तेन विधिना साधयेत् सुधीः ।
तस्मात् सर्वप्रयत्नेन साधयेद् गोपयेत् सुधीः ॥ ३७ ॥

यत्रैतत्पुस्तकं तिष्ठेत् लक्ष्मीनारायणात्मकम् ।
भूत पैशाच वेताल भयं नैव तु सर्वदा ॥ ३८ ॥

भृगुवारे तथा रात्रौ पूजयेत् पुस्तकद्वयम् ।
सर्वदा सर्वदा स्तुत्यं गोपयेत् साधयेत् सुधीः ।
गोपनात् साधनाल्लोके धन्यो भवति तत्त्वतः ॥ ३९ ॥

॥ इत्यथर्वरहस्ये उत्तरभागे नारायण हृदय स्तोत्रम् ॥

Lakshmi Narasimha pancharatnam – लक्ष्मीनृसिंह पञ्चरत्नम्

Lakshmi Narasimha pancharatnam – लक्ष्मीनृसिंह पञ्चरत्नम्

त्वत्प्रभुजीवप्रियमिच्छसि चेन्नरहरिपूजां कुरु सततं
प्रतिबिम्बालङ्कृतिधृतिकुशलो बिम्बालङ्कृतिमातनुते ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ १ ॥

शुक्तौ रजतप्रतिभा जाता कटकाद्यर्थसमर्था चे-
द्दुःखमयी ते संसृतिरेषा निर्वृतिदाने निपुणा स्यात् ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ २ ॥

आकृतिसाम्याच्छाल्मलिकुसुमे स्थलनलिनत्वभ्रममकरोः
गन्धरसाविह किमु विद्येते विफलं भ्राम्यसि भृशविरसेस्मिन् ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ३ ॥

स्रक्चन्दनवनितादीन्विषयान्सुखदान्मत्वा तत्र विहरसे
गन्धफलीसदृशा ननु तेमी भोगानन्तरदुःखकृतः स्युः ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ४ ॥

तव हितमेकं वचनं वक्ष्ये शृणु सुखकामो यदि सततं
स्वप्ने दृष्टं सकलं हि मृषा जाग्रति च स्मर तद्वदिति।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ५ ॥

Sunday, October 13, 2019

Ganesha Gayatri Mantra गणेश गायत्री मंत्र

Lyrics-

           Om Ekadantaya Vidmahe
           Vakkratundaya Dheemahi
           Tanno Danti Prachodayat

Meaning-
     
           We devote our thoughts to the one tusked Lord
           We meditate upon Him who has a curved trunk
           May the tusked one guide us on the right path.

ॐ एकदन्ताय विद्धमहे, वक्रतुण्डाय धीमहि,

तन्नो दन्ति प्रचोदयात्॥

यह भगवान श्री गणेश का गायत्री मंत्र है इसमें कहा गया है कि हम उस परमात्मा स्वरुप एकदंत यानि एक दांत वाले भगवान श्री गणेश, जो कि सर्वव्यापी हैं, जिनकी सूंड हाथी के सूंड की तरह मुड़ी हुई है उनसे प्रार्थना करते हैं एवं सद्बुद्धि की कामना करते हैं। हम भगवान श्री गणेश को नमन करते हैं एवं प्रार्थना करते हैं कि वे अपने आशीर्वाद से हमारे मन-मस्तिष्क से अज्ञान के अंधकार को मिटाकर ज्ञान से प्रकाशित करें।